Sukta 5.27
यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म ॥
यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति । वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥
yó me śatā́ ca viṃśatíṃ ca gónāṃ hárī ca yuktā́ sudhúrā dádāti | vaiśvā́nara súṣṭuto vāvṛdhānó ’gne yáchcha tri-áruṇāya śárma ||
He who gives me a hundred and twenty rays of knowledge, and the two tawny powers yoked and well-bearing—O Vaiśvānara, well-praised and increasing, O Agni, grant to Tri-aruṇa a sheltering peace.
यः । मे॒ । श॒ता । च॒ । विं॒श॒तिम् । च॒ । गोना॑म् । हरी॒ इति॑ । च॒ । यु॒क्ता । सु॒ऽधुरा॑ । ददा॑ति । वैश्वा॑नर । सुऽस्तु॑तः । व॒वृ॒धा॒नः । अग्ने॑ । यच्छ॑ । त्रिऽअ॑रुणाय । शर्म॑ ॥यः । मे । शता । च । विंशतिम् । च । गोनाम् । हरी इति । च । युक्ता । सुधुरा । ददाति । वैश्वानर । सुस्तुतः । ववृधानः । अग्ने । यच्छ । त्रिअरुणाय । शर्म ॥yaḥ | me | śatā | ca | viṃśatim | ca | gonām | harī iti | ca | yuktā | su-dhurā | dadāti | vaiśvānara | su-stutaḥ | vavṛdhānaḥ | agne | yaccha | tri-aruṇāya | śarma