Sukta 5.23
विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥
विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः । होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥
viśvé hí tvā sajóṣaso jánāso vṛktábārhiṣaḥ | hótāraṃ sádmasu priyáṃ vyánti vā́ryā purú ||
For all the peoples, in one accord and with the sacrifice made ready, seek you—the beloved Invoker—in their dwelling-places; they long for many desirable fulfillments through you.
विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः । होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥विश्वे । हि । त्वा । सजोषसः । जनासः । वृक्तबर्हिषः । होतारम् । सद्मसु । प्रियम् । व्यन्ति । वार्या । पुरु ॥viśve | hi | tvā | sa-joṣasaḥ | janāsaḥ | vṛkta-barhiṣaḥ | hotāram | sadma-su | priyam | vyanti | vāryā | puru