Sukta 5.23
स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे । अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥
स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे । अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्न॑: शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥
sá hí ṣmā viśvácarṣaṇir abhímāti sáho dadhé | ágna eṣú kṣáyeṣv ā́ révann aḥ śukra dīdihi dyumát pāvaka dīdihi ||
For he, the universal guide of the human energies, sets his conquering power against the assailing forces. O Agni, in these our dwelling-places shine upon us with richness—O bright one; blaze, O luminous purifier, blaze.
सः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे । अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥सः । हि । स्म । विश्वचर्षणिः । अभिमाति । सहः । दधे । अग्ने । एषु । क्षयेषु । आ । रेवत् । नः । शुक्र । दीदिहि । द्युमत् । पावक । दीदिहि ॥saḥ | hi | sma | viśva-carṣaṇiḥ | abhi-māti | sahaḥ | dadhe | agne | eṣu | kṣayeṣu | ā | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi