Sukta 5.23
तमग्ने पृतनाषहं रयिं सहस्व आ भर । त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र । त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥
tám agne pṛtanāṣáhaṃ rayíṃ sahasva ā́ bhara | tváṃ hí satyó ádbhuto dātā́ vā́jasya gómataḥ ||
That wealth, O Agni—victorious in the battles—bring to us by your mastering force. For you are the true and wondrous giver of the plenitude that is rich in rays of illumination.
तम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽसह॑म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ । त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोऽम॑तः ॥तम् । अग्ने । पृतनासहम् । रयिम् । सहस्वः । आ । भर । त्वम् । हि । सत्यः । अद्भुतः । दाता । वाजस्य । गोमतः ॥tam | agne | pṛtanāsaham | rayim | sahasvaḥ | ā | bhara | tvam | hi | satyaḥ | adbhutaḥ | dātā | vājasya | go--mataḥ