Sukta 5.23
अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् । विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥
अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥
agné sahantamā́ bhara dyumnásya prāsáhā rayím | viśvā́ yaś carṣaṇī́r abhyā́3 āsā́ vā́jeṣu sāsáhat ||
O Agni, bring to us the most conquering plenitude—an inner wealth of luminous power that presses forward. You who approach all the human energies and overcome in the fields of force, carry us into victory.
अग्ने॑ । सह॑न्तम् । आ । भ॒र॒ । द्यु॒म्नस्य॑ । प्र॒ऽसहा॑ । र॒यिम् । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । आ॒सा । वाजे॑षु । स॒सह॑त् ॥अग्ने । सहन्तम् । आ । भर । द्युम्नस्य । प्रसहा । रयिम् । विश्वाः । यः । चर्षणीः । अभि । आसा । वाजेषु । ससहत् ॥agne | sahantam | ā | bhara | dyumnasya | pra-sahā | rayim | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | āsā | vājeṣu | sasahat