Sukta 5.17
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥
अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ । अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥
ásya kratvā́ vícetaso dasmásya vásu rátha ā́ | adhā́ viśvā́su havyó 'gnír víkṣu prá śasyate ||
By his discerning power of will, the wondrous One brings the good treasure upon the chariot of movement; then, as the one to be invoked, Agni is acclaimed among all the clans—present in every field of human life.
अ॒स्य । क्रत्वा॑ । विऽचे॑तसः । द॒स्मस्य॑ । वसु॑ । रथे॑ । आ । अध॑ । विश्वा॑सु । हव्यः॑ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥अस्य । क्रत्वा । विचेतसः । दस्मस्य । वसु । रथे । आ । अध । विश्वासु । हव्यः । अग्निः । विक्षु । प्र । शस्यते ॥asya | kratvā | vi-cetasaḥ | dasmasya | vasu | rathe | ā | adha | viśvāsu | havyaḥ | agniḥ | vikṣu | pra | śasyate