Sukta 5.17
अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे । तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥
अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से । तं नाकं॑ चि॒त्रशो॑चिषं म॒न्द्रं प॒रो म॑नी॒षया॑ ॥
ásya hí sváyaśas-tara āsā́ ví-dharman mányase | táṃ nā́kaṃ citrá-śociṣaṃ mandráṃ paró manīṣáyā ||
For you deem him to be of a self-born greater glory, O discerner of the law: that heaven-high Agni of variegated flame, the delight-giver, is held beyond by the illumined mind.
अस्य॑ । हि । स्वय॑शःऽतरः । आ॒सा । वि॒ऽध॒र्म॒न् । मन्य॑से । तम् । नाक॑म् । चि॒त्रऽशो॑चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया॑ ॥अस्य । हि । स्वयशःतरः । आसा । विधर्मन् । मन्यसे । तम् । नाकम् । चित्रशोचिषम् । मन्द्रम् । परः । मनीषया ॥asya | hi | svayaśaḥ-taraḥ | āsā | vi-dharman | manyase | tam | nākam | citra-śociṣam | mandram | paraḥ | manīṣayā