Sukta 5.17
आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये । अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥
आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ । अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥
ā́ yajñáiḥ deva mártya itthā́ tavyā́ṃsam ūtáye | agníṃ kṛté sv-adhvaré pū́rur īḷīta ā́vase ||
By sacrifices the mortal comes near, O God, to the more powerful One for help; and Pūru, in the rightly fashioned journey of the offering, adores Agni for protection—calling the divine Will to guard and lead.
आ य॒ज्ञैः । दे॒व॒ । मर्त्यः॑ । इ॒त्था । तव्यां॑सम् । ऊ॒तये॑ । अ॒ग्निम् । कृ॒ते । सु॒ऽअ॒ध्व॒रे । पू॒रुः । ई॒ळी॒त॒ । अव॑से ॥आ यज्ञैः । देव । मर्त्यः । इत्था । तव्यांसम् । ऊतये । अग्निम् । कृते । सुअध्वरे । पूरुः । ईळीत । अवसे ॥ā yajñaiḥ | deva | martyaḥ | itthā | tavyāṃsam | ūtaye | agnim | kṛte | su-adhvare | pūruḥ | īḷīta | avase