Sukta 5.15
अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय । स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥
अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ । स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भित॒: परि॑ ष्ठुः ॥
aṅhoyúvas tanvàs tanvate ví váyo mahat dúṣṭaraṃ pū́rvyāya | sá saṃvató náva-jātas tuturyāt siṃháṃ ná kruddhám abhítaḥ párī sthuḥ ||
The young slayer of anguish extends his body; he spreads a vast strength, hard to cross, for the ancient work. Newly born through the cycles, he drives forward—like a lion in wrath, around whom the adversaries stand at a distance.
अं॒हः॒ऽयुवः॑ । त॒न्वः॑ । त॒न्व॒ते॒ । वि । वयः॑ । म॒हत् । दु॒स्तर॑म् । पू॒र्व्याय॑ । सः । स॒म्ऽवतः॑ । नव॑ऽजातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः॑ । परि॑ । स्थुः ॥अंहःयुवः । तन्वः । तन्वते । वि । वयः । महत् । दुस्तरम् । पूर्व्याय । सः । सम्वतः । नवजातः । तुतुर्यात् । सिंहम् । न । क्रुद्धम् । अभितः । परि । स्थुः ॥aṃhaḥ-yuvaḥ | tanvaḥ | tanvate | vi | vayaḥ | mahat | dustaram | pūrvyāya | saḥ | sam-vataḥ | nava-jātaḥ | tuturyāt | siṃham | na | kruddham | abhitaḥ | pari | sthuḥ