Sukta 5.15
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः ॥
ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् । दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥
ṛténa ṛtáṃ dharúṇaṃ dhārayanta yajñásya śā́ke paramé vyòman | divó dhármān dharúṇe sedúṣo nṝ́ñ jātáir ájātāṃ abhí yé nanakṣúḥ ||
By the Truth (ṛta) they uphold the Truth’s foundation in the supreme expanse, in the luminous power of the sacrifice. Seated in the support of Heaven’s laws, they, the strong ones, by what is born in them, attain and master what is yet unborn.
ऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शो॒के । प॒र॒मे । विऽओ॑मन् । दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥ऋतेन । ऋतम् । धरुणम् । धारयन्त । यज्ञस्य । शोके । परमे । विओमन् । दिवः । धर्मन् । धरुणे । सेदुषः । नॄन् । जातैः । अजातान् । अभि । ये । ननक्षुः ॥ṛtena | ṛtam | dharuṇam | dhārayanta | yajñasya | śoke | parame | vi-oman | divaḥ | dharman | dharuṇe | seduṣaḥ | nṝn | jātaiḥ | ajātān | abhi | ye | nanakṣuḥ