Sukta 4.57
इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥
इन्द्र॒: सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु । सा न॒: पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥
índraḥ sī́tāṃ ní gṛhṇātu tā́ṃ pūṣā́nu yacchatu | sā́ naḥ páyasvatī duhām úttarām-uttarāṃ sámām ||
May Indra take hold of the Furrow and set it firm; may Pūṣan lead it onward on its right path. And may she, rich in nourishing essence, milk for us year after year an ever greater increase.
इन्द्रः॑ । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु॑ । य॒च्छ॒तु॒ । सा । नः॒ । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥इन्द्रः । सीताम् । नि । गृह्णातु । ताम् । पूषा । अनु । यच्छतु । सा । नः । पयस्वती । दुहाम् । उत्तराम्उत्तराम् । समाम् ॥indraḥ | sītām | ni | gṛhṇātu | tām | pūṣā | anu | yacchatu | sā | naḥ | payasvatī | duhām | uttarām-uttarām | samām