Sukta 4.57
शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥
शु॒नं न॒: फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भि॒: शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥
śunáṃ naḥ phālā́ ví kṛṣantu bhū́miṃ śunáṃ kīnā́śā abhí yantu vāháīḥ | śunáṃ párjanyo mádhunā páyo-bhiḥ śúnāsīrā śunám asmā́su dhattam ||
May the ploughshares carve open our field in a happy, auspicious movement; may the tillers come toward the work with their yoked energies. May Parjanya (the Rain-Power) pour sweetness with his nourishing streams; O Śunā and Sīrā, place this auspiciousness within us.
शु॒नम् । नः॒ । फालाः॑ । वि । कृ॒ष॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशाः॑ । अ॒भि । य॒न्तु॒ । वा॒हैः । शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयः॑ऽभिः । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥शुनम् । नः । फालाः । वि । कृषन्तु । भूमिम् । शुनम् । कीनाशाः । अभि । यन्तु । वाहैः । शुनम् । पर्जन्यः । मधुना । पयःभिः । शुनासीरा । शुनम् । अस्मासु । धत्तम् ॥śunam | naḥ | phālāḥ | vi | kṛṣantu | bhūmim | śunam | kīnāśāḥ | abhi | yantu | vāhaiḥ | śunam | parjanyaḥ | madhunā | payaḥ-bhiḥ | śunāsīrā | śunam | asmāsu | dhattam