Sukta 4.57
अर्वाची सुभगे भव सीते वन्दामहे त्वा । यथा नः सुभगाससि यथा नः सुफलाससि ॥
अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा । यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥
arvā́cī subhage bhava sī́te vandāmahe tvā | yáthā naḥ subhágāsasi yáthā naḥ suphalā́sasi ||
Turn toward us, O fortunate Sītā; we adore you. Be for us the bringer of good fortune; be for us the giver of good fruit—so the sowing of truth yields its fulfilled harvest.
अ॒र्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । सीते॑ । वन्दा॑महे । त्वा॒ । यथा॑ । नः॒ । सु॒ऽभगा॑ । अस॑सि । यथा॑ । नः॒ । सु॒फला॑ । अस॑सि ॥अर्वाची । सुभगे । भव । सीते । वन्दामहे । त्वा । यथा । नः । सुभगा । अससि । यथा । नः । सुफला । अससि ॥arvācī | su-bhage | bhava | sīte | vandāmahe | tvā | yathā | naḥ | su-bhagā | asasi | yathā | naḥ | suphalā | asasi