Sukta 4.57
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् । क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् । क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥
mádhumatīroṣádhīr dyā́va ā́po mádhumanno bhavatv antárikṣam | kṣétrasya pátir mádhumā́n no astv áriṣyanto ánv enaṃ carema ||
Honeyed be the plants, honeyed the heavens and the waters; honeyed be for us the mid-world of life-breath. Honeyed be to us the Lord of the Field; unharmed, following his lead, may we move in his ordered domain.
मधु॑ऽमतीः । ओष॑धीः । द्यावः॑ । आपः॑ । मधु॑ऽमत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि॑क्षम् । क्षेत्र॑स्य । पतिः॑ । मधु॑ऽमान् । नः॒ । अ॒स्तु॒ । अरि॑ष्यन्तः॑ । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥मधुमतीः । ओषधीः । द्यावः । आपः । मधुमत् । नः । भवतु । अन्तरिक्षम् । क्षेत्रस्य । पतिः । मधुमान् । नः । अस्तु । अरिष्यन्तः । अनु । एनम् । चरेम ॥madhu-matīḥ | oṣadhīḥ | dyāvaḥ | āpaḥ | madhu-mat | naḥ | bhavatu | antarikṣam | kṣetrasya | patiḥ | madhu-mān | naḥ | astu | ariṣyantaḥ | anu | enam | carema