Sukta 4.57
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒: पत॑यो मृळयन्तु ॥
kṣétrasya pate mádhumantam ūrmíṃ dhénuriva páyo asmā́su dhukṣva | mádhuścútaṃ ghṛtámiva supū́tam ṛtásya naḥ pátayo mṛḷayantu ||
O Lord of the Field, milk into us the honeyed wave, as a cow her milk—let it flow sweetly, like clarified ghee well purified. May the guardians of ṛta be gracious to us, making our nature a vessel of right increase.
क्षेत्र॑स्य । प॒ते॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । धे॒नुःऽइ॑व । पयः॑ । अ॒स्मासु॑ । धु॒क्ष्व॒ । म॒धु॒ऽश्चुत॑म् । घृ॒तम्ऽइ॑व । सुऽपू॑तम् । ऋ॒तस्य॑ । नः॒ । पत॑यः । मृ॒ळ॒य॒न्तु॒ ॥क्षेत्रस्य । पते । मधुमन्तम् । ऊर्मिम् । धेनुःइव । पयः । अस्मासु । धुक्ष्व । मधुश्चुतम् । घृतम्इव । सुपूतम् । ऋतस्य । नः । पतयः । मृळयन्तु ॥kṣetrasya | pate | madhu-mantam | ūrmim | dhenuḥ-iva | payaḥ | asmāsu | dhukṣva | madhu-ścutam | ghṛtam-iva | su-pāūtam | ṛtasya | naḥ | patayaḥ | mṛḷayantu