Sukta 4.57
क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि । गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥
kṣétrasya páthinā vayáṃ hiténeva jayāmasi | gā́m áśvaṃ poṣayitnvā́ sá no mṛḷātīdṛ́śe ||
By the Lord of the Field we win, as by a sure beneficence; he who nurtures in us the Cow and the Horse—rays of illumination and force—may he be gracious to us who seek in this manner.
क्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ । गाम् । अस्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥क्षेत्रस्य । पतिना । वयम् । हितेनइव । जयामसि । गाम् । अस्वम् । पोषयित्नु । आ । सः । नः । मृळाति । ईदृशे ॥kṣetrasya | patinā | vayam | hitena-iva | jayāmasi | gām | asvam | poṣayitnu | ā | saḥ | naḥ | mṛḷāti | īdṛśe