Sukta 4.52
प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । ओषा अप्रा उरु ज्रयः ॥
प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मय॑: । ओषा अ॑प्रा उ॒रु ज्रय॑: ॥
práti bhadrā́ adr̥kṣata gavā́m sárgā ná raśmáyaḥ | óṣā aprā́ urú jráyaḥ ||
In response, the auspicious powers become visible—like the streaming forth of the Cows of Light, like rays released; Dawn has filled out her wide, swift-moving courses, opening the way for a larger advance of consciousness.
प्रति॑ । भ॒द्राः । अ॒दृ॒क्ष॒त॒ । गवा॑म् । सर्गाः॑ । न । र॒श्मयः॑ । आ । उ॒षाः । अ॒प्राः॒ । उ॒रु । ज्रयः॑ ॥प्रति । भद्राः । अदृक्षत । गवाम् । सर्गाः । न । रश्मयः । आ । उषाः । अप्राः । उरु । ज्रयः ॥prati | bhadrāḥ | adṛkṣata | gavām | sargāḥ | na | raśmayaḥ | ā | uṣāḥ | aprāḥ | uru | jrayaḥ