Sukta 4.50
स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण । बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥
स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण । बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज॑म् ॥
sa íd rājā́ práti-janyā́ni víśvā śúṣmeṇa tasthāv abhí vī́ryeṇa | bṛ́haspátiṃ yáḥ su-bhṛ́taṃ bibhárti valgūyáti vándate pū́rva-bhā́jam ||
He indeed becomes the king: by force of inner ardour and by heroic power he stands over all opposing births and claimants. Whoever bears within him the well-sustained Brihaspati, rejoices and offers adoration to the ancient First-Sharer (of the Truth).
सः । इत् । राजा॑ । प्रति॑ऽजन्यानि । विश्वा॑ । शुष्मे॑ण । त॒स्थौ॒ । अ॒भि । वी॒र्ये॑ण । बृह॒स्पति॑म् । यः । सुऽभृ॑तम् । बि॒भर्ति॑ । व॒ल्गु॒ऽयति॑ । वन्द॑ते । पू॒र्व॒ऽभाज॑म् ॥सः । इत् । राजा । प्रतिजन्यानि । विश्वा । शुष्मेण । तस्थौ । अभि । वीर्येण । बृहस्पतिम् । यः । सुभृतम् । बिभर्ति । वल्गुयति । वन्दते । पूर्वभाजम् ॥saḥ | it | rājā | prati-janyāni | viśvā | śuṣmeṇa | tasthau | abhi | vīryeṇa | bṛhaspatim | yaḥ | su-bhṛtam | bibharti | valgu-yati | vandate | pūrva-bhājam