Sukta 4.50
स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥
स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् । तस्मै॒ विश॑: स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥
sa ít kṣéti sú-dhita ókasi své tásmā íḷā pinvate viśva-dā́nīm | tásmai víśaḥ svayám evā́ namante yásmin brahmā́ rājáni pū́rva éti ||
He dwells indeed in his own well-founded home; for him the nourishing Ila swells the universal giving. To him the peoples of the being bow of themselves, in whom the Brahman (the inspired power) goes first before the kingly will.
सः । इत् । क्षे॒ति॒ । सुऽधि॑तः । ओक॑सि । स्वे । तस्मै॑ । इळा॑ । पि॒न्व॒ते॒ । वि॒श्व॒ऽदानी॑म् । तस्मै॑ । विशः॑ । स्व॒यम् । ए॒व । न॒म॒न्ते॒ । यस्मि॑न् । ब्र॒ह्मा । राज॑नि । पूर्वः॑ । एति॑ ॥सः । इत् । क्षेति । सुधितः । ओकसि । स्वे । तस्मै । इळा । पिन्वते । विश्वदानीम् । तस्मै । विशः । स्वयम् । एव । नमन्ते । यस्मिन् । ब्रह्मा । राजनि । पूर्वः । एति ॥saḥ | it | kṣeti | su-dhitaḥ | okasi | sve | tasmai | iḷā | pinvate | viśva-dānīm | tasmai | viśaḥ | svayam | eva | namante | yasmin | brahmā | rājani | pūrvaḥ | et i