Sukta 4.50
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥
ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑: । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
evā́ pitré viśvádevāya vṛ́ṣṇe yajñáir vidhema námasā havírbhiḥ | bṛ́haspate suprájā vī́ravanto vayaṁ syāma pátayo rayīṇā́m ||
Thus to the Father, the all-divine Strong One, we would serve with sacrifices, with homage and with offerings. O Bṛhaspati, may we be of good progeny, rich in heroic force, and masters of plenitudes of being.
ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ । बृह॑स्पते । सु॒ऽप्र॒जाः । वी॒रऽव॑न्तः । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥एव । पित्रे । विश्वदेवाय । वृष्णे । यज्ञैः । विधेम । नमसा । हविःभिः । बृहस्पते । सुप्रजाः । वीरवन्तः । वयम् । स्याम । पतयः । रयीणाम् ॥eva | pitre | viśva-devāya | vṛṣṇe | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ | bṛhaspate | su-prajāḥ | vīra-vantaḥ | vayam | syāma | patayaḥ | rayīṇām