Sukta 4.50
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूद॒: कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥
sá suṣṭúbhā sá ṛ́kvatā gaṇéna valáṁ ruroja phaligáṁ ráveṇa | bṛ́haspátir usriyā́ havya-sū́daḥ kaníkradad vā́vaśatīr udā́jat ||
He, with the well-formed hymn and the company of seers, broke open Vala, the enclosing cave, by his cry. Bṛhaspati, the bringer of the offering’s flame, lowing, sent forth upward the radiant cows—rays of knowledge that were hidden.
सः । सु॒ऽस्तुभा । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । रवे॑ण । बृह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उत् । आ॒ज॒त् ॥सः । सुस्तुभा । सः । ऋक्वता । गणेन । वलम् । रुरोज । फलिगम् । रवेण । बृहस्पतिः । उस्रियाः । हव्यसूदः । कनिक्रदत् । वावशतीः । उत् । आजत् ॥saḥ | su-stubhā | saḥ | ṛkvatā | gaṇena | valam | ruroja | phali-gam | raveṇa | bṛhaspatiḥ | usriyāḥ | havya-sūdaḥ | kanikradat | vāvaśatīḥ | ut | ājat