Sukta 4.50
बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् । सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥
बृह॒स्पति॑: प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥
bṛ́haspátiḥ prathamáṁ jā́yamāno mahó jyótiṣaḥ paramé vyòman | saptā́syas tuvijā́to ráveṇa ví saptáraśmir adhamat tamā́ṃsi ||
Bṛhaspati, being born first, in the highest heaven of the great Light—seven-mouthed, mightily born—by his cry, seven-rayed, he drove apart the darknesses.
बृह॒स्पतिः॑ । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे । विऽओ॑मन् । स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः । अ॒ध॒म॒त् । तमां॑सि ॥बृहस्पतिः । प्रथमम् । जायमानः । महः । ज्योतिषः । परमे । विओमन् । सप्तआस्यः । तुविजातः । रवेण । वि । सप्तरश्मिः । अधमत् । तमांसि ॥bṛhaspatiḥ | prathamam | jāyamānaḥ | mahaḥ | jyotiṣaḥ | parame | vi-oman | sapta-āsyaḥ | tuvi-jātaḥ | raveṇa | vi | sapta-raśmiḥ | adhamat | tamāṃsi