Sukta 4.50
बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः । तुभ्यं खाता अवता अद्रिदुग्धा मध्वः श्चोतन्त्यभितो विरप्शम् ॥
बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः । तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥
bṛ́haspate yā́ paramā́ parāvádata ā́ ta ṛtáspṛśo ní ṣeduḥ | túbhyaṁ khātā́ avatā́ ádridugdhā mádhvaḥ ścotanty abhíto virápśam ||
O Bṛhaspati, from that supreme far region the touchers of the Truth have sat down near you; for you the dug-out wells, milked by the pressing-stone, drip honeyed delight on every side into the wide working of consciousness.
बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पृशः॑ । नि । से॒दुः॒ । तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥बृहस्पते । या । परमा । परावत् । अतः । आ । ते । ऋतस्पृशः । नि । सेदुः । तुभ्यम् । खाताः । अवताः । अद्रिदुग्धाः । मध्वः । श्चोतन्ति । अभितः । विरप्शम् ॥bṛhaspate | yā | paramā | parāvat | ataḥ | ā | te | ṛta-spṛśaḥ | ni | seduḥ | tubhyam | khātāḥ | avatāḥ | adri-dugdhāḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam