Sukta 4.50
धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे । पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥
धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे । पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥
dhunétayaḥ supraketáṁ mádanto bṛ́haspate abhí yé nas tatasré | pṛ́ṣantaṁ sṛprám adábhtham ūrváṁ bṛ́haspate rákṣatād asyá yónim ||
O Bṛhaspati, those shaking assailants who rush upon us, exulting—against the well-guided light within—may you protect the strong, unfailing wide foundation, and guard its womb of formation.
धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बृह॑स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे । पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑तात् । अ॒स्य॒ । योनि॑म् ॥धुनइतयः । सुप्रकेतम् । मदन्तः । बृहस्पते । अभि । ये । नः । ततस्रे । पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षतात् । अस्य । योनिम् ॥dhuna-itayaḥ | su-praketam | madantaḥ | bṛhaspate | abhi | ye | naḥ | tatasre | pṛṣantam | sṛpram | adabdham | ūrvam | bṛhaspate | rakṣatāt | asya | yonim