Sukta 4.46
रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् । आ हि स्थाथो दिविस्पृशम् ॥
रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् । आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥
ratháṃ híraṇya-vandhuram índra-vāyū svadhvarám | ā́ hí sthā́tho divi-spṛ́śam ||
O Indra and Vāyu, mount the chariot whose frame is of gold—well-ordered in its movement of sacrifice; for you stand upon a car that touches heaven. Let your divine mobility descend into our working and lift it toward the luminous planes.
रथ॑म् । हिर॑ण्यऽवन्धुरम् । इन्द्र॑वायू॒ इति॑ । सु॒ऽअ॒ध्व॒रम् । आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥रथम् । हिरण्यवन्धुरम् । इन्द्रवायू इति । सुअध्वरम् । आ । हि । स्थाथः । दिविस्पृशम् ॥ratham | hiraṇya-vandhuram | indravāyūiti | su-adhvaram | ā | hi | sthāthaḥ | div i-spṛśam