Sukta 4.46
आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः । वहन्तु सोमपीतये ॥
आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रय॑: । वह॑न्तु॒ सोम॑पीतये ॥
ā́ vām sahásraṃ háraya índra-vāyū abhí práyaḥ | váhantu sóma-pītaye ||
O Indra and Vāyu, let a thousand bright energies (your bays) bring you here towards the offering, for the drinking of Soma. May the powers of force and breath together arrive in abundance to receive the nectar and uplift our being.
आ । वा॒म् । स॒हस्र॑म् । हर॑यः । इन्द्र॑वायू॒ इति॑ । अ॒भि । प्रयः॑ । वह॑न्तु । सोम॑ऽपीतये ॥आ । वाम् । सहस्रम् । हरयः । इन्द्रवायू इति । अभि । प्रयः । वहन्तु । सोमपीतये ॥ā | vām | sahasram | harayaḥ | indravāyūiti | abhi | prayaḥ | vahantu | soma-pītaye