Sukta 4.46
शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः । वायो सुतस्य तृम्पतम् ॥
श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः । वायो॑ सु॒तस्य॑ तृम्पतम् ॥
śaténa no abhíṣṭibhir niyútvān índra-sārathiḥ | vā́yo sutásya tṛ́mpatam ||
With a hundred helps for us, O Vāyu—yoked with your teams and with Indra as your charioteer—be filled with the pressed Soma. Let the life-force be satisfied by delight, so it may drive the energies in the right direction.
श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः । वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥शतेन । नः । अभिष्टिभिः । नियुत्वान् । इन्द्रसारथिः । वायो इति । सुतस्य । तृम्पतम् ॥śatena | naḥ | abhiṣṭi-bhiḥ | niyutvān | indra-sārathiḥ | vāyo iti | sutasya | tṛmpatam