Sukta 4.44
आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥
आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न । मा वा॑म॒न्ये नि य॑मन्देव॒यन्त॒: सं यद्द॒दे नाभि॑: पू॒र्व्या वा॑म् ॥
ā́ no yātaṁ divó ácchā pṛthivyā́ hiraṇyáyena su-vṛ́tā ráthena | mā́ vām anyé ní yaman deva-yántaḥ sáṁ yád dadé nā́bhiḥ pū́rvyā vām ||
Come to us from heaven and from earth in your well-rolling golden chariot. Let not other seekers of the gods hold you back, when the ancient navel-centre of your communion is set here with us.
आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् । यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सुवृता । रथेन । मा । वाम् । अन्ये । नि । यमन् । देवयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥ā | naḥ | yātam | divaḥ | accha | pṛthivyāḥ | hiraṇyayena | su-vṛtā | rathena | mā | vām | anye | ni | yaman | deva-yantaḥ | sam | yat | dade | nābhiḥ | pūrvyā | vām