Sukta 4.44
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् । पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम् । पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥
hiraṇyáyena purubhū́ ráthene máṁ yajñáṁ nāsatyópa yātam | pibā́thaḥ ín mádhunaḥ somyásya dádhatho rátnam vidhaté jánāya ||
Come near to this sacrifice, O Nāsatyas, in your golden, all-abundant chariot. Drink indeed of the honeyed Soma; and place the treasure in the human who serves and sets the work of offering.
हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः । रत्न॑म् । वि॒ध॒ते । जना॑य ॥हिरण्ययेन । पुरुभू इति पुरुभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् । पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय ॥hiraṇyayena | purubhūitipuru-bhū | rathena | imam | yajñam | nāsatyā | upa | yātam | pibāthaḥ | it | madhunaḥ | somyasya | dadhathaḥ | ratnam | vidhate | janāya