Sukta 4.44
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे । नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमीळ्हासो अग्मन् ॥
नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे । नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥
nū́ no rayíṁ puru-vī́raṁ bṛhántam dasrā́ mimāthām ubháyeṣv asmḗ | náro yád vām aśvinā stómam ā́van sadhá-stutim ā́ja-mīḷhāso agman ||
Now, O wondrous Aśvins, fashion for us a vast rayi—rich in many heroic powers—on both sides of our being. For the men who have brought you the chant, the immediate praise, the forward-driving call, have come.
नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । द॒स्रा॒ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ । नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ळ्हासः॑ । अ॒ग्म॒न् ॥नु । नः । रयिम् । पुरुवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति । नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधस्तुतिम् । आजमीळ्हासः । अग्मन् ॥nu | naḥ | rayim | puru-vīram | bṛhantam | dasrā | mimāthām | ubhayeṣu | asme iti | naraḥ | yat | vām | aśvinā | stomam | āvan | sadha-stutim | āja-mīḷhāsaḥ | agman