Sukta 4.44
को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥
को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः । ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥
kó vām adyá karte rātá-havya ūtáye vā suta-peyā́ya vā arkáiḥ | ṛtásya vā vanúṣe pū́rvyāya námo yemā́no aśvinā́ ā́ vavartat ||
Who today fashions for you the offered oblation—who turns to you for help, or for the drinking of the pressed Soma, with hymns? Or who, seeking the ancient path of Ṛta, comes forward bowing in homage, O Aśvins?
कः । वा॒म् । अ॒द्य । का॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कैः । ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥कः । वाम् । अद्य । कारते । रातहव्यः । ऊतये । वा । सुतपेयाय । वा । अर्कैः । ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत् ॥kaḥ | vām | adya | kārate | rāta-havyaḥ | ūtaye | vā | suta-peyāya | vā | arkaiḥ | ṛtasya | vā | vanuṣe | pūrvyāya | namaḥ | yemānaḥ | aśvinā | ā | vavartat