Sukta 4.44
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः । युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथ॒: शची॑भिः । यु॒वोर्वपु॑र॒भि पृक्ष॑: सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥
yuváṁ śríyam aśvinā devátā tā́ṁ divó napātā vanathaḥ śácībhiḥ | yuvór vápuḥ abhí pṛ́kṣaḥ sacante váhanti yát kakuhā́saḥ ráthe vām ||
You two, O Aśvins, divine Powers, win for yourselves that Śrī—this shining felicity—O children of Heaven, by your effective energies. The steeds press close around your radiant form and bear it onward when the high-crested ones draw your chariot.
यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः । यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः । युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥yuvam | śriyam | aśvinā | devatā | tān | divaḥ | napātā | vanathaḥ | śacībhiḥ | yuvoḥ | vapuḥ | abhi | pṛkṣaḥ | sacante | vahanti | yat | kakuhāsaḥ | rathe | vām