Sukta 4.44
तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः । यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः । यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ॥
táṃ vāṃ ráthaṃ vayám adyā́ huvema pṛthú-jrayam aśvinā sam-gatíṃ góḥ | yáḥ sū́ryāṃ váhati vandhurā-yúr girvā́hasaṃ puru-tamáṃ vasūyúm ||
That chariot of yours we call today, O Aśvins—wide-racing, the meeting-place of the Rays (cows of light). It is the bearer of Sūryā, rich in yoked life, carrier of the inspired word, most abundant, seeker and giver of true riches.
तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ । सम्ऽग॑तिम् । गोः । यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् । पु॒रु॒ऽतम॑म् । व॒सु॒ऽयुम् ॥तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । पृथुज्रयम् । अश्विना । सम्गतिम् । गोः । यः । सूर्याम् । वहति । वन्धुरयुः । गिर्वाहसम् । पुरुतमम् । वसुयुम् ॥tam | vām | ratham | vayam | adya | huvema | pṛthu-jrayam | aśvinā | sam-gatim | goḥ | yaḥ | sūryām | vahati | vandhura-yuḥ | girvāhasam | puru-tamam | vasu-yum