Sukta 4.43
सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन् । तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥
सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षास॒: परि॑ ग्मन् । तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्याया॑: ॥
síndhur ha vāṃ rasáyā siñcád aśvā́n ghṛṇā́ váyo 'ruṣā́saḥ pári gman | tád ū ṣú vām ajiráṃ céti yā́naṃ yéna patī́ bhávathaḥ sūryā́yāḥ ||
The river-ocean floods your horses with sap and sweetness; by radiant warmth the ruddy birds move all around. That indeed is your swift-going course, by which you become the lords and companions of Sūryā—the illumined Bride.
सिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् । तत् । ऊँ॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥सिन्धुः । ह । वाम् । रसया । सिञ्चत् । अश्वान् । घृणा । वयः । अरुषासः । परि । ग्मन् । तत् । ऊँ इति । सु । वाम् । अजिरम् । चेति । यानम् । येन । पती इति । भवथः । सूर्यायाः ॥sindhuḥ | ha | vām | rasayā | siñcat | aśvān | ghṛṇā | vayaḥ | aruṣāsaḥ | pari | gman | tat | oṃ iti | su | vām | ajiram | ceti | yānam | yena | patī iti | bhavathaḥ | sūryāyāḥ