Sukta 4.43
उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम् । मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥
उ॒रु वां॒ रथ॒: परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम् । मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः ॥
urú vāṃ ráthaḥ pári nakṣati dyā́m ā́ yát samudrā́d abhí vártate vām | madhvā́ mādhvī́ mádhu vāṃ pruṣāyán yát sīm vāṃ pṛ́kṣo bhurájanta pakvā́ḥ ||
Wide is your chariot as it ranges around the heaven, when it turns toward you from the ocean of being. With honey—honeyed sweetness—your delight rains down, when the ripe nourishments are poured out for you in abundance.
उ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर॑ते । वा॒म् । मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्र॒ुषा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥उरु । वाम् । रथः । परि । नक्षति । द्याम् । आ । यत् । समुद्रात् । अभि । वरते । वाम् । मध्वा । माध्वी इति । मधु । वाम् । प्रुषायन् । यत् । सीम् । वाम् । पृक्षः । भुरजन्त । पक्वाः ॥uru | vām | rathaḥ | pari | nakṣati | dyām | ā | yat | samudrāt | abhi | varate | vām | madhvā | mādhvī iti | madhu | vām | pruṣāyan | yat | sīm | vām | pṛkṣaḥ | bhurajanta | pakvaaḥ