Sukta 4.43
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना । उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना । उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥
ihéha yád vāṃ samánā papṛkṣé séyam asmè sumatír vāja-ratnā | uruṣyátaṃ jaritā́raṃ yuváṃ ha śritáḥ kā́mo nāsatyā yuvadrík ||
Here and here, wherever your oneness is joined, may that become for us the good mind—rich in plenitude of force. Protect widely the singer; for in you, O Nāsatyas, our desire has taken refuge, looking toward you.
इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ । उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥इहइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुमतिः । वाजरत्ना । उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā | uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik