Sukta 4.43
का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना । को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥
का वां॑ भू॒दुप॑माति॒: कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना । को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥
kā́ vāṃ bhū́d upa-mātíḥ kayā́ na ā́śvinā gamatho hū́yamānā | kó vāṃ maháś cit tyájaso abhī́ka uruṣyátaṃ mādhvī dasrā na ūtī́ ||
What was your nearest measure, by what way do you come to us, O Aśvins, when you are called? Who even in vastness of splendour comes close to you? Protect us widely, O Wonder-Workers, with the honeyed help.
का । वा॒म् । भू॒त् । उप॑ऽमातिः । कया॑ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा॑ना । कः । वा॒म् । म॒हः । चि॒त् । त्यज॑सः । अ॒भीके॑ । उ॒रु॒ष्यत॑म् । मा॒ध्वी॒ इति॑ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥का । वाम् । भूत् । उपमातिः । कया । नः । आ । अश्विना । गमथः । हूयमाना । कः । वाम् । महः । चित् । त्यजसः । अभीके । उरुष्यतम् । माध्वी इति । दस्रा । नः । ऊती ॥kā | vām | bhūt | upa-mātiḥ | kayā | naḥ | ā | aśvinā | gamathaḥ | hūyamānā | kaḥ | vām | mahaḥ | cit | tyajasaḥ | abhīke | uruṣyatam | mādhvī iti | dasrā | naḥ | ūtī