Sukta 4.43
मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम् । दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् । दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथ॒: शचि॑ष्ठा ॥
makṣū́ hí ṣmā́ gácchatha ī́vato dyū́n índro ná śaktíṃ pári-takmyāyām | divá ājā́tā divyā́ suparṇā́ kayā́ śácīnām bhavathaḥ śáciṣṭhā ||
Swiftly indeed you come through the days, like Indra moving with power through the encompassing resistance. Born of heaven, heavenly, fair-winged, by what mode of your effective workings do you become most potent in skill?
म॒क्षु । हि । स्म॒ । गच्छ॑थः । ईव॑तः । द्यून् । इन्द्रः॑ । न । श॒क्तिम् । परि॑ऽतक्म्यायाम् । दि॒वः । आऽजा॑ता । दि॒व्या । सु॒ऽप॒र्णा । कया॑ । शची॑नाम् । भ॒व॒थः॒ । शचि॑ष्ठा ॥मक्षु । हि । स्म । गच्छथः । ईवतः । द्यून् । इन्द्रः । न । शक्तिम् । परितक्म्यायाम् । दिवः । आजाता । दिव्या । सुपर्णा । कया । शचीनाम् । भवथः । शचिष्ठा ॥makṣu | hi | sma | gacchathaḥ | īvataḥ | dyūn | indraḥ | na | śaktim | pari-takmyāyām | divaḥ | ājātā | divyā | su-parṇā | kayā | śacīnām | bhavathaḥ | śaciṣṭhā