Sukta 4.43
को मृळाति कतम आगमिष्ठो देवानामु कतमः शम्भविष्ठः । रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शम्भ॑विष्ठः । रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥
kó mṛḷāti katamá ā́gamiṣṭho devā́nām u katamáḥ śámbhaviṣṭhaḥ | ráthaṃ kám āhur dravád-aśvam āśúṃ yáṃ sū́ryasya duhitā́vṛṇīta ||
Who grants the gladness of release? Who is the nearest-coming among the gods, who the most beneficent? Which is that swift chariot with running horses that the Daughter of the Sun chose—by which you come to the call?
कः । मृ॒ळा॒ति॒ । क॒त॒मः । आऽग॑मिष्ठः । दे॒वाना॑म् । ऊँ॒ इति॑ क॒त॒मः । शम्ऽभ॑विष्ठः । रथ॑म् । कम् । आ॒हुः॒ । द्र॒वत्ऽअ॑श्वम् । आ॒शुम् । यम् । सूर्य॑स्य । दु॒हि॒ता । अवृ॑णीत ॥कः । मृळाति । कतमः । आगमिष्ठः । देवानाम् । ऊँ इति कतमः । शम्भविष्ठः । रथम् । कम् । आहुः । द्रवत्अश्वम् । आशुम् । यम् । सूर्यस्य । दुहिता । अवृणीत ॥kaḥ | mṛḷāti | katamaḥ | āgamiṣṭhaḥ | devānām | oṃ itikatamaḥ | śam-bhaviṣṭhaḥ | ratham | kam | āhuḥ | dravat-aśvam | āśum | yam | sūryasya | duhitā | avṛṇīta