Sukta 4.43
क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते । कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते । कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम् ॥
ká u śravat katamó yajñiyā́nāṃ vandā́ru deváḥ katamó juṣāte | kásyemā́ṃ devī́m amṛ́teṣu préṣṭhāṃ hṛdí śréṣāma suṣṭutíṃ suhávyām ||
Who indeed will hear—who among the powers worthy of sacrifice will accept our adoration? For whom shall we set this divine Word, most beloved among the Immortals, within the heart—our well-shaped hymn, rich in offering?
कः । ऊँ॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ । कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥कः । ऊँ इति । श्रवत् । कतमः । यज्ञियानाम् । वन्दारु । देवः । कतमः । जुषाते । कस्य । इमाम् । देवीम् । अमृतेषु । प्रेष्ठाम् । हृदि । श्रेषाम । सुस्तुतिम् । सुहव्याम् ॥kaḥ | oṃ iti | śravat | katamaḥ | yajñiyānām | vandāru | devaḥ | katamaḥ | juṣāte | kasya | imām | devīm | amṛteṣu | preṣṭhām | hṛdi | śreṣāma | su-stutim | su-havyām