Sukta 4.42
अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् । यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥
अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतम् । यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥
aháṃ tā́ víśvā cakaraṃ nákir mā daívyam sáho varate áprati-itam | yán mā sómāso mamádan yád ukthā́ ubhé bhayete rájasī apāré ||
I have done all those works; no divine power can choose a might beyond me, unsurpassed. When the Soma-streams exhilarate me, when the hymns uplift me, then both the wide realms tremble in the farthest reaches.
अ॒हम् । ता । विश्वा॑ । च॒क॒र॒म् । नकिः॑ । मा॒ । दैव्य॑म् । सहः॑ । व॒र॒ते॒ । अप्र॑तिऽइतम् । यत् । मा॒ । सोमा॑सः । म॒मद॑न् । यत् । उ॒क्था । उ॒भे इति॑ । भ॒ये॒ते॒ इति॑ । रज॑सी॒ इति॑ । अ॒पा॒रे इति॑ ॥अहम् । ता । विश्वा । चकरम् । नकिः । मा । दैव्यम् । सहः । वरते । अप्रतिइतम् । यत् । मा । सोमासः । ममदन् । यत् । उक्था । उभे इति । भयेते इति । रजसी इति । अपारे इति ॥aham | tā | viśvā | cakaram | nakiḥ | mā | daivyam | sahaḥ | varate | aprati-itam | yat | mā | somāsaḥ | mamadan | yat | ukthā | ubhe iti | bhayeteiti | rajasī iti | apāre iti