Sukta 4.41
ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू । श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः ॥
ता वां॒ धियोऽव॑से वाज॒यन्ती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू । श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥
tā́ vāṃ dhíyo’váse vāja-yántīr ā́jiṃ ná jagmur yuva-yū́ḥ sudānū | śríye ná gā́va úpa sómam asthur índraṃ gíro váruṇaṃ me manīṣā́ḥ ||
These inspirations, bringing the plenitude of force, have gone to you for help as to a race; like cows to their glory they have stood near the Soma. My utterances go to Indra; my thought-formations to Varuṇa.
ताः । वा॒म् । धियः॑ । अव॑से । वा॒ज॒ऽयन्तीः॑ । आ॒जिम् । न । ज॒मुः॒ । यु॒व॒ऽयूः । सु॒दा॒नू॒ इति॑ सुऽदानू । श्रि॒ये । न । गावः॑ । उप॑ । सोम॑म् । अ॒स्थुः॒ । इन्द्र॑म् । गिरः॑ । वरु॑णम् । मे॒ । म॒नी॒षाः ॥ताः । वाम् । धियः । अवसे । वाजयन्तीः । आजिम् । न । जमुः । युवयूः । सुदानू इति सुदानू । श्रिये । न । गावः । उप । सोमम् । अस्थुः । इन्द्रम् । गिरः । वरुणम् । मे । मनीषाः ॥tāḥ | vām | dhiyaḥ | avase | vāja-yantīḥ | ājim | na | jamuḥ | yuva-yūḥ | sudānūitisu-dānū | śriye | na | gāvaḥ | upa | somam | asthuḥ | indram | giraḥ | varuṇam | me | manīṣāḥ