Sukta 4.41
इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः । सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥
इन्द्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः । सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
índrā yuváṃ varuṇā bhūtám asyā́ dhiyaḥ prétārā vṛṣabhéva dhenóḥ | sā́ no duhīyad yávasā́iva gatvī́ sahásra-dhārā páyasā mahī́ gáuḥ ||
Indra and Varuṇa, become the leaders of this inspired thought, as two bulls leading the milch-cow; may she yield to us her milk, moving like one going to pasture—this great Cow with a thousand streams of her luminous plenitude.
इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । भू॒तम् । अ॒स्याः । धि॒यः । प्रे॒तारा॑ । वृ॒ष॒भाऽइ॑व । धे॒नोः । सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥इन्द्रा । युवम् । वरुणा । भूतम् । अस्याः । धियः । प्रेतारा । वृषभाइव । धेनोः । सा । नः । दुहीयत् । यवसाइव । गत्वी । सहस्रधारा । पयसा । मही । गौः ॥indrā | yuvam | varuṇā | bhūtam | asyāḥ | dhiyaḥ | pretārā | vṛṣabhāiva | dhenoḥ | sā | naḥ | duhīyat | yavasāiva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ