Sukta 4.41
अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम । ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम् ॥
अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम । ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युत॑: सचन्ताम् ॥
aśvyásya tmanā́ ráthyasya puṣṭér nítyasya rāyáḥ pátayaḥ syāma | tā́ cakrāṇā ū́ti-bhir návyasībhir asma-trā́ rā́yo ni-yútaḥ sacantām ||
May we be masters of the perennial wealth—of the horse-force in its own power, of the chariot-force, of the nourishing increase. And may those two (Indra and Varuṇa), fashioning ever-new helps, yoke to us here the ordered harnessings of riches.
अश्व्य॑स्य । त्मना॑ । रथ्य॑स्य । पु॒ष्टेः । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ । ता । च॒क्रा॒णौ । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । अ॒स्म॒ऽत्रा । रायः॑ । नि॒ऽयुतः॑ । स॒च॒न्ता॒म् ॥अश्व्यस्य । त्मना । रथ्यस्य । पुष्टेः । नित्यस्य । रायः । पतयः । स्याम । ता । चक्राणौ । ऊतिभिः । नव्यसीभिः । अस्मत्रा । रायः । नियुतः । सचन्ताम् ॥aśvyasya | tmanā | rathyasya | puṣṭeḥ | nityasya | rāyaḥ | patayaḥ | syāma | tā | cakrāṇau | ūti-bhiḥ | navyasībhiḥ | asma-trā | rāyaḥ | ni-yutaḥ | sacantām