Sukta 4.41
इन्द्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रम् । यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः ॥
इन्द्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र॑म् । यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑: ॥
índrā yuváṃ varuṇā didyúm asmín ójiṣṭham ugrā ní vadhiṣṭaṃ vájram | yó no duḥ-évō vṛ́katiḥ dabhītís tásmin mimāthām abhi-bhū́ty ójaḥ ||
Indra and Varuṇa, you two mighty ones, set down in this being the most forceful, flashing thunderbolt; whatever is our ill-will, the wolfing tear, the deceiving fear—upon that crush it, with a conquering strength.
इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । दि॒द्युम् । अ॒स्मि॒न् । ओजि॑ष्ठम् । उ॒ग्रा॒ । नि । व॒धि॒ष्ट॒म् । वज्र॑म् । यः । नः॒ । दुः॒ऽएवः॑ । वृ॒कतिः॑ । द॒भीतिः॑ । तस्मि॑न् । मि॒मा॒था॒म् । अ॒भिऽभू॑ति । ओजः॑ ॥इन्द्रा । युवम् । वरुणा । दिद्युम् । अस्मिन् । ओजिष्ठम् । उग्रा । नि । वधिष्टम् । वज्रम् । यः । नः । दुःएवः । वृकतिः । दभीतिः । तस्मिन् । मिमाथाम् । अभिभूति । ओजः ॥indrā | yuvam | varuṇā | didyum | asmin | ojiṣṭham | ugrā | ni | vadhiṣṭam | vajram | yaḥ | naḥ | duḥ-evaḥ | vṛkatiḥ | dabhītiḥ | tasmin | mimāthām | abhi-bhūti | ojaḥ