Sukta 4.41
इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता । यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥
इन्द्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्य॑: शशमा॒नेभ्य॒स्ता । यदी॒ सखा॑या स॒ख्याय॒ सोमै॑: सु॒तेभि॑: सुप्र॒यसा॑ मा॒दयै॑ते ॥
índrā ha rátnaṃ váruṇā dhéṣṭhe ítthā nṛ́-bhyaḥ śaśamānébhyas tā́ | yadī́ sákhāyā sakhyā́ya sómaiḥ sutébhiḥ su-prayásā mā́dayaite ||
Indra and Varuṇa indeed place the treasure in this way for men who strive and labour; when the two friends, for the sake of friendship, take delight with the pressed Soma-waves, rich in a beautiful offering-energy.
इन्द्रा॑ । ह॒ । रत्न॑म् । वरु॑णा । धेष्ठा॑ । इ॒त्था । नृऽभ्यः॑ । श॒श॒मा॒नेभ्यः॑ । ता । यदि॑ । सखा॑या । स॒ख्याय॑ । सोमैः॑ । सु॒तेभिः॑ । सु॒ऽप्र॒यसा॑ । मा॒दयै॑ते॒ इति॑ ॥इन्द्रा । ह । रत्नम् । वरुणा । धेष्ठा । इत्था । नृभ्यः । शशमानेभ्यः । ता । यदि । सखाया । सख्याय । सोमैः । सुतेभिः । सुप्रयसा । मादयैते इति ॥indrā | ha | ratnam | varuṇā | dheṣṭhā | itthā | nṛ-bhyaḥ | śaśamānebhyaḥ | tā | yadi | sakhāyā | sakhyāya | somaiḥ | sutebhiḥ | su-prayasā | mādayaiteiti