Sukta 4.41
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे ॥
इन्द्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्त॑: स॒ख्याय॒ प्रय॑स्वान् । स ह॑न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भि॒: स प्र शृ॑ण्वे ॥
índrā ha yó váruṇā cakrá ā́pī deváu mártaḥ sakhyā́ya práyasvān | sá hánti vṛtrā́ sam-ithéṣu śátrūn ávo-bhir vā mahád-bhiḥ sá prá śṛṇve ||
He who has made Indra and Varuṇa his close companions for the sake of an intimate alliance—the mortal who is rich in the offering-energy—he strikes down the Vṛtras, the obstructing powers, and in the battles he overthrows the hostile forces; by their helps, or by their vast might, he becomes one who breaks through and is heard in the forefront.
इन्द्रा॑ । ह॒ । यः । वरु॑णा । च॒क्रे । आ॒पी इति॑ । दे॒वौ । मर्तः॑ । स॒ख्याय॑ । प्रय॑स्वान् । सः । ह॒न्ति॒ । वृ॒त्रा । स॒म्ऽइ॒थेषु॑ । शत्रू॑न् । अवः॑ऽभिः । वा॒ । म॒हत्ऽभिः॑ । सः । प्र । शृ॒ण्वे॒ ॥इन्द्रा । ह । यः । वरुणा । चक्रे । आपी इति । देवौ । मर्तः । सख्याय । प्रयस्वान् । सः । हन्ति । वृत्रा । सम्इथेषु । शत्रून् । अवःभिः । वा । महत्भिः । सः । प्र । शृण्वे ॥indrā | ha | yaḥ | varuṇā | cakre | āpī iti | devau | martaḥ | sakhyāya | prayasvān | saḥ | hanti | vṛtrā | sam-itheṣu | śatrūn | avaḥ-bhiḥ | vā | mahat-bhiḥ | saḥ | pra | śṛṇve