Sukta 4.41
इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता । यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् ॥
इन्द्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ । यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ॥
índrā́ kó vāṃ varuṇā́ sumnám āpa stómo havíṣmāṃ amṛ́to ná hótā | yó vāṃ hṛdí krátumān asmád uktaḥ pásparśad indrāvaruṇā́ námasvān ||
O Indra and Varuṇa, what hymn-offering has reached your grace, like an immortal priest with oblation? The word from us, endowed with will in the heart, has touched you—O Indra-Varuṇa—bowing in reverence.
इन्द्रा॑ । कः । वा॒म् । व॒रु॒णा॒ । सु॒म्नम् । आ॒प॒ । स्तोमः॑ । ह॒विष्मा॑न् । अ॒मृतः॑ । न । होता॑ । यः । वा॒म् । हृ॒दि । क्रतु॑ऽमान् । अ॒स्मत् । उ॒क्तः । प॒स्पर्श॑त् । इ॒न्द्रा॒व॒रु॒णा॒ । नम॑स्वान् ॥इन्द्रा । कः । वाम् । वरुणा । सुम्नम् । आप । स्तोमः । हविष्मान् । अमृतः । न । होता । यः । वाम् । हृदि । क्रतुमान् । अस्मत् । उक्तः । पस्पर्शत् । इन्द्रावरुणा । नमस्वान् ॥indrā | kaḥ | vām | varuṇā | sumnam | āpa | stomaḥ | haviṣmān | amṛtaḥ | na | hotā | yaḥ | vām | hṛdi | kratu-mān | asmat | uktaḥ | pasparśat | indrāvaruṇā | namasvān