Sukta 4.40
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥
उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्कां॒स्यन्वा॒पनी॑फणत् ॥
utá syá vājī kṣípaṇiṃ turaṇyati grīvā́yāṃ baddhó apikakṣá āsáni | krátuṃ dadhikrā́ ánu saṃtavī́tvat pathā́m aṅkā́ṃsy ánv āpanī́phaṇat ||
And this steed of plenitude hastens with quickening speed, bound at the neck, held close at the flank with the seat. Dadhikrā follows the will (kratu) in perfect discipline; along the path he bends and straightens the turns, mastering the curves of the way.
उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया॑म् । ब॒द्धः । अ॒पि॒ऽक॒क्षे । आ॒सनि॑ । क्रतु॑म् । द॒धि॒ऽक्राः । अनु॑ । स॒म्ऽतवी॑त्वत् । प॒थाम् । अङ्कां॑सि । अनु॑ । आ॒ऽपनी॑फणत् ॥उत । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बद्धः । अपिकक्षे । आसनि । क्रतुम् । दधिक्राः । अनु । सम्तवीत्वत् । पथाम् । अङ्कांसि । अनु । आपनीफणत् ॥uta | syaḥ | vājī | kṣipaṇim | turaṇyati | grīvāyām | baddhaḥ | āpi-kakṣe | āsani | kratum | dadhi-krāḥ | anu | sam-tavītvat | pathām | aṅkāṃsi | anu | āpanīphaṇat