Sukta 4.40
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥
हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥
haṃsáḥ śucíṣad vásur antárikṣasad dhótā vediṣád átithir duroṇasát | nṛṣád varasád ṛtasád vyòmasad abjā́ gojā́ ṛtajā́ ādrijā́ ṛtám ||
The Swan—dwelling in the pure— a radiant one seated in the mid-world; the Priest seated on the altar, the Guest seated in the home. Seated in man, seated in the highest, seated in the Truth, seated in the vast; born of the Waters, born of the Rays, born of Ṛta, born of the Rock—he is Ṛta itself.
हं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् । नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥हंसः । शुचिसत् । वसुः । अन्तरिक्षसत् । होता । वेदिसत् । अतिथिः । दुरोणसत् । नृसत् । वरसत् । ऋतसत् । व्योमसत् । अप्जाः । गोजाः । ऋतजाः । अद्रिजाः । ऋतम् ॥haṃsaḥ | śuci-sat | vasuḥ | antarikṣa-sat | hotā | vedi-sat | atithiḥ | duroṇa-sat | nṛ-sat | vara-sat | ṛta-sat | vyoma-sat | abjāḥ | go--jāḥ | ṛta-jāḥ | ādri-jāḥ | ṛtam